|
|
 |
 |
|
|
१६आश्रमवासिकपर्व.jpg)
॥ श्रीः ॥
16.1. अध्यायः 001
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
युधिष्ठिरेण राज्यपरिपालनम्॥ 1 ॥ कुन्तीद्रौपद्यादिभिर्गान्धार्यां श्वश्रूवद्वर्तनम्॥ 2 ॥ भीमवर्जमर्जुनादिभिर्युधिष्ठिरशासनेन विशेषतो धृतराष्ट्रानुवर्तनम्॥ 3 ॥
Mahabharata - AshramaVasika Parva - Chapter Text
श्रीवेदव्यासाय नमः।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥ 16-1-1(97215)
जनमेजय उवाच। 16-1-1x(8029)
प्राप्य पैतामहं राज्यं मम पूर्वपितामहाः।
कथमासन्महाराजे धृतराष्ट्रे महात्मनि॥ 16-1-1(97216)
स तु राजा हतामात्यो हतपुत्रो निराश्रयः।
कथमासीद्धतैश्वर्यो गान्धारी च तपस्विनी॥ 16-1-2(97217)
कियन्तं चैव कालं ते मम पूर्वपितामहाः।
स्थिता राज्ये महात्मानस्तन्मे व्याख्यातुमर्हसि॥ 16-1-3(97218)
वैशम्पायन उवाच। 16-1-4x(8030)
प्राप्य राज्यं महात्मानः पाण्डवा हतशत्रवः।
धृतराष्ट्रं पुरस्कृत्य पृथिवीं पर्यपालयन्॥ 16-1-4(97219)
धृतराष्ट्रमुपातिष्ठद्विदुरः संजयस्तथा।
वैश्यापुत्रश्च मेधावी युयुत्सुः कुरुसत्तम॥ 16-1-5(97220)
पाण्डवाः सर्वकार्येषु पर्यपृच्चन्त तं नृपम्।
चक्रुस्तेनाभ्यनुज्ञाता वर्षाणि दश पञ्च च॥ 16-1-6(97221)
सदाऽभिगम्य ते वीराः पर्युपासन्त तं नृपम्।
पादाभिवादनं कृत्वा धर्मिराजमते स्थिताः॥ 16-1-7(97222)
ते मूर्ध्नि समुपाघ्राताः सर्वकार्याणि चक्रिरे।
कुन्तिभोजसुता चैव गान्धारीमन्ववर्तत॥ 16-1-8(97223)
द्रौपदी च सुभद्रा च याश्चान्याः पाण्डवस्त्रियः।
समां वृत्तिमवर्तन्त तयोः श्वश्र्वोर्यथाविधि॥ 16-1-9(97224)
शयनानि महार्हाणि वासांस्याभरणानि च।
राजार्हाणि च सर्वाणि भक्ष्यभोज्यान्यनेकशः॥ 16-1-10(97225)
युधिष्ठिरो महाराज धृतराष्ट्रेऽभ्युपाहरत्।
तथैव कुन्ती गान्धार्यां गुरुवृत्तिमवर्तत॥ 16-1-11(97226)
विदुरः संजयश्चैव युयुत्सुश्चैव कौरव।
उपासते स्म तं वृद्धं हतपुत्रं जनाधिपम्॥ 16-1-12(97227)
श्यालो द्रोणस्य यश्चासीद्दयितो ब्राह्ममो महान्।
स च तस्मिन्महेष्वासः कृपः समभवत्तदा॥ 16-1-13(97228)
व्यासश्च भगवान्नित्यमासांचक्रे नृपेण ह।
कथाः कुर्वन्पुराणर्षिर्देवर्षिपितृरक्षसाम्॥ 16-1-14(97229)
धर्मयुक्तानि कार्याणि व्यवहारान्वितानि च।
धृतराष्ट्राभ्यनुज्ञातो विदुरस्तान्यकारयत्॥ 16-1-15(97230)
सामन्तेभ्यः प्रियाण्यस्य कार्याणि सुबहून्यपि।
प्राप्यन्तेऽर्थेः सुलघुभिः सुनयाद्विदुरस्य वै॥ 16-1-16(97231)
अकरोद्बन्धमोक्षं च वध्यानां मोक्षणं तथा।
न च धर्मसुतो राजा कदाचित्किञ्चिदब्रवीत्॥ 16-1-17(97232)
विहारयात्रासु पुनः कुरुराजो युधिष्ठिरः।
सर्वान्कामानुपस्थाप्य धृतराष्ट्रे न्यवेदयत्॥ 16-1-18(97233)
आरालिकाः सूपकारा रागषाडविकास्तथा।
उपातिष्ठन्त राजानं धृतराष्ट्रं यथापुरम्॥ 16-1-19(97234)
वासांसि च महार्हाणि माल्यानि विविधानि च।
उपाजह्रुर्यथाकालं धृतराष्ट्रस्य पाण्डवाः॥ 16-1-20(97235)
मैरेयमधुमांसानि पानकानि लघूनि च।
चित्रान्भक्ष्यविकारांश्च चक्रुस्तस्य यथा पुरा॥ 16-1-21(97236)
ये चापि पृथिवीपालाः समाजग्मुस्ततस्ततः।
उपातिष्ठन्त ते सर्वे कौरवेन्द्रं यथापुरा॥ 16-1-22(97237)
कुन्ती च द्रौपदी चैव सात्वती च यशस्विनी।
उलूपी नागकन्या च देवी चित्राङ्गदा तथा॥ 16-1-23(97238)
धृष्टकेतोश्च भगिनी जरासन्धसुता तथा।
एताश्चान्याश्च बह्व्यो वै योषितः पुरुषर्षभ।
किंकराः पर्युपातिष्ठन्सर्वाः सुबलजां तथा॥ 16-1-24(97239)
यथा पुत्रवियुक्तोऽयं न किञ्चिद्दुःखमाप्नुयात्।
इति तानन्वशाद्भातॄन्नित्यमेव युधिष्ठिरः॥ 16-1-25(97240)
एवं ते धर्मराजस्य श्रुत्वा वचनमर्थवत्।
सविशेषमवर्तन्ति भीममेकं तदा विना॥ 16-1-26(97241)
न हि तत्तस्य वीरस्य हृदयादपसर्पति।
धृतराष्ट्रस्य दुर्बुद्ध्या यद्वृत्तं द्यूतमण्डले॥ ॥ 16-1-27(97242)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि प्रथमोऽध्यायः॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-1-2 गान्धारी च यशस्विनीति झ.थ.पाठः॥ 7-1-5 उपातिष्ठदाराधितवान्॥ 7-1-9 सतां वृत्तिमवर्तन्तेति थ.पाठः॥ 7-1-13 तस्मिन्धृतराष्ट्रे समभवत्तन्निकटे अभवत्॥ 7-1-14 वासं चक्रे नृपेण हेति क.थ.पाठः॥ 7-1-16 प्रभावाद्विदुरस्य वै इति क.थ.पाठः॥ 7-1-19 अरया शस्त्रविशेषेण लूनं छिन्नं शाकादि अरालु तत्संस्कुर्वन्ति ते आरालिकाः शाकविशेषकर्तारः रागखाण्डविकास्तथेति झ.पाठः। रागषाडवं पिप्पलीशुठीशर्करोपेतो मुद्गयूषस्तत्कर्तारो रागषाडविकाः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|